8. இதின் பிறகு ஆறு யாகங்கள் செய்யப்படுகின்றன. அவைகளாவன - (1) அக்கினி - எட்டுக்கபால புரோடாசம்; (2) பவமாநன் என்னும் அக்கினி, பாவகன் என்னும் அக்கினி. சுசி என்னும் அக்கினி - இவர்கள் மூன்று பேர்களுக்கும் திரவியம் எட்டுக்கபால புரோடாசங்கள்; (3) இந்திராக்கினி - பதினொரு கபால புரோடாசம்; அதிதி - சரு. இவைகளைச் சேர்த்தும் செய்யலாம்; அல்லது ஒவ்வொரு கூறை தனித்தனியாய் சொன்ன வரிசைப்படியும் செய்யலாம். இரண்டாவது கூறு யாகங்களுக்கு நிர்வாபம் செய்யும்போது, முதல் யாகத்துக்குத் தனியாகவும். மற்ற இரண்டுக்கும் சேர்த்தும் செய்யவேண்டியது. மூன்றாவது கூறில் அரிசியை நெய்யில் போட்டு சருவைச் செய்ய வேண்டும். அதை ஹோமம் செய்த பிறகு, மீதியை, चतुर्धाकरणமில்லாமல், பிரும்மாவுக்குக் கொடுக்க வேண்டியது.आप.श्रौत.सूत्रम्,प्रश्नः-5, कण्डिका-19,21,22).

कण्डिका-19
1 - आग्नेयस्याष्टाकपालस्य तन्त्रं प्रक्रमयति
2 - निरुप्तं हविरुपसन्नमप्रोक्षितं भवति / अथ सभाया मध्येऽधिदेवनमुद्धत्यावोक्ष्याक्षान्न्युप्याक्षेषु हिरण्यं निधाय समूह्य व्यूह्य प्रथयित्वा निषसाद धृतव्रत इति मध्येऽधिदेवने राजन्यस्य जुहोति
3 - आवसथे परिषदो मध्ये हिरण्यं निधाय मन्त्रवत्या हिरण्ये जुहोति प्र नूनं ब्रह्मणस्पतिर्मन्त्रं वदत्युक्थ्यम् / यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिर इति
4 - उत नोऽहिर्बुध्न्यः शृणोत्वज एकपात्पृथिवी समुद्रः / विश्वे देवा ऋतावृधो हुवानाः स्तुता मन्त्राः कविशस्ता अवन्तु न इत्युक्त्वा शतमक्षान्यजमानाय प्रयच्छन्नाह व्रीहिभ्यो गां दीव्यताहिंसन्तः परूंषि विशसतेति
5 - संप्रैषवत्कुर्वन्ति

कण्डिका-21
1 - पवमानहवींषि सद्यो निर्वपेत्
2 - द्वादशाहे द्व्यहे त्र्यहे चतुरहेऽर्धमासे मास्यृतौ संवत्सरे वा
3 - न सोमेनायक्ष्यमाणः पुरा संवत्सरान्निर्वपेत्
4 - निर्वपेद् इत्येके
5 - यदि निर्वपेदग्नये पवमानायाग्नये पावकायाग्नये शुचय इति तिस्र आज्याहुतीः सोमदेवताभ्यो वा हुत्वा निर्वपेत्
6 - समानतन्त्राणि नानातन्त्राणि वाग्नेयेन वा समानतन्त्राणि
7 - यं कामयेत पापीयान्स्यादिति तस्यैकमेकम् एतानि हवींषि निर्वपेत् / न वसीयान्न पापीयानिति तस्य साकं सर्वाणि / यं कामयेतोत्तरं वसीयाञ्छ्रेयान् स्याद् इति तस्याग्नये पवमानाय निरुप्य पावकशुचिभ्यां समानबर्हिषी निर्वपेत्
8 - शतमानं हिरण्यं दक्षिणा
9 - पूर्वयोर्हविषोर्द्वे त्रिंशन्माने उत्तरस्मिंश्चत्वारिंशन्मानम्
10 - येन हिरण्यं मिमते तेन मीत्वा ददाति
11 - सिद्धमिष्टिः संतिष्ठते

कण्डिका-22
1 - ऐन्द्राग्नमेकादशकपालमनुनिर्वपत्यादित्यं च घृते चरुम्
2 - सप्तदश सामिधेन्यः
3 - चतुर्धाकरणकाल आदित्यं ब्रह्मणे परिहरति
4 - तं चत्वार आर्षेयाः प्राश्नन्ति
5 - प्राशितवद्भ्यः समानं वरं ददाति / धेन्वनडुहोर्दानम् एके समामनन्ति / सिद्धमिष्टिः संतिष्ठते
6 - आग्नावैष्णवमेकादशकपालमनुनिर्वपत्यग्नीषोमीयमेकादशकपालं विष्णवे शिपिविष्टाय त्र्युद्धौ घृते चरुम्
7 - सिद्धमिष्टिः संतिष्ठते
8 - आदित्यं घृते चरुं सप्तदशसामिधेनीकं धेनुदक्षिणं सर्वेषामनुनिर्वाप्याणां स्थाने वाजस्नेयिनः समामनन्ति
9 - सिद्धमिष्टिः संतिष्ठते
10 - अग्निहोत्रमारप्स्यमानो दशहोतारं मनसानुद्रुत्याहवनीये सग्रहं हुत्वाथ सायमग्निहोत्रं जुहोति
11 - व्याहृतीभिरुपसादयेत्
12 - संवत्सरे पर्यागत एताभिरेवोपसादयेत्
13 - द्वादशाहमजस्रेष्वग्निषु यजमानः स्वयमग्निहोत्रं जुहुयादप्रवसन्नहतं वासो बिभर्ति

Go to Main Page